← Back
एकमुखी हनुमान कवच
॥
एकमुखी हनुमान कवचम् ॥
एकदा सुखमासीनं शंकरं लोकशंकरम्।
प्रपच्छ गिरिजा कान्तं कर्पूरधवलं शिवम् ॥
॥
पार्वत्युवाचः ॥
भगवान् देवदेवेश लोकनाथ जगत्प्रभो।
शोकाकुलानां लोकानां केन रक्षा भवेद् ध्रुवम् ॥
संग्रामे संकटे घोरे भूतप्रेतादि के भये।
दुःख दावानि संतप्त चेतसां दुःख भागिनाम् ॥
॥
महादेव उवाचः ॥
श्रृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया।
विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ॥
कवचं कपिनाथस्य वायुपुत्रस्य धीमतः।
गुह्यात्तते प्रवक्ष्यामि विशेषाच्छृणु सुन्दरी ॥
॥
विनियोगः ॥
ॐ अस्य श्री हनुमान कवचं स्तोत्र मंत्रस्य श्री रामचन्द्र ऋषिः, श्री वीरो हनुमान परमात्मा देवता, अनुष्टुप् छन्दः,
मारुतात्मज इति बीजम्, अंजनीसुनुरिति शक्तिः, लक्ष्मण प्राणदाता इति जीवः, श्रीराम भक्तिरिति कवचम्,
लंकाप्रदाहक इति कीलकम् मम सकल कार्य सिद्धयर्थे जपे विनियोगः ॥
॥
मंत्र ॥
ॐ ऐं भ्रीं ह्रीं ह्रीं हूं हूं ह्रां ह्रां ॥
॥
करन्यासः ॥
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ हूं मध्यमाभ्यां नमः ।
ॐ हूं अनामिकाभ्यां नमः ।
ॐ हौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतल करपृष्ठाभ्यां नमः ।
॥
हृदयादिन्यास ॥
ॐ अंजनीसूतवे नमः; हृदयाय नमः ।
ॐ रुद्रमूर्तये नमः; शिरसे स्वाहा ।
ॐ वतात्मजाय नमः; शिखायै वषट् ।
ॐ रामभक्तिरतये नमः; कवचाय हुम् ।
ॐ वज्र कवचाय नमः; नेत्रत्रयाय वौषट् ।
ॐ ब्रह्मास्त्र निवारणाय नमः; अस्त्राय फट् ।
ॐ ध्यायेद् बालदिवाकर द्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुख-प्रशस्त-यशसं देदीप्यमानं रुचा ॥
सुमीतवाहिनं समस्त वानरायुतं सुष्यक्तलप्रियम्।
संसाररौषणं लोचनं पवननं पीतांबरलंकम्॥
उद्धन्यामिन्द्र कोटि प्रकट रुचि युक्तं चारुकीरासनस्थं।
मौंजी यज्ञोपवीताभरण रुचि शिखा शोभितं कुंडलाधारयन्तम्॥
भ्रान्तामाध्यद्रणांपगंजं वैद्यानामप्रमोदं ध्यानध्यानं विशुद्धं पलवल्कुलस्थं।
गावाक्षगं गगनगतं वल्मीकि गीर्वाणगिरं स्वर्णकायं मणिप्रभं॥
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम्।
कुण्डलद्वयसंशोभिं मुखाम्भोजं हरीं भजे॥
॥
हनुमान मंत्र ॥
ॐ नमो भगवते हनुमदायाय रूद्र रूप सर्व दुःख जन
मुख संहर कु रु कु रु ॐ हूँ हूँ ठः ठः फट स्वाहा॥
ॐ नमो हनुमते शोभिताननाय यशोलंकृताय
अंजनी गर्भ संभूताय रामलक्ष्मणानुचर कपी
सेन्य प्रकाश पर्वताचलाय सुग्रीवसचिवाय
करुणाकर परायणाय कुमार ब्रह्मचारिग गम्भीर
शब्दवाचकाय नमः हं हं हं सर्व दुःख निवारणाय स्वाहा॥
ॐ नमो हनुमते सर्वग्रहण भूत भविष्य वर्तमान
दूरस्थ समीपस्थानं छिन्धि छिन्धि छिन्धि मथ मथ मथ
उत्पाटय उत्पाटय उत्पाटय सर्वदुःखं विनाशय विनाशय विनाशय
सर्वरोगान् नाशय नाशय नाशय
सर्वविघ्नान् हनुमान् प्रशमय प्रशमय प्रशमय।
ॐ हं हं हं हनुमते नमः।
ॐ फट् स्वाहा॥
ॐ नमो हनुमते परकृत यन्त्र मन्त्र प्रहरणकार
भूत प्रेत पिशाच परदृष्टि सर्वतर्जन चेतक
वशीकरण उच्चाटन स्तम्भन मारण मोहन विद्वेषण
नाशनाय नाशनाय नाशनाय
सर्वदोषान् विनाशय विनाशय विनाशय।
ॐ हं हं हं हनुमते नमः।
ॐ हुं फट् स्वाहा॥
॥
श्रीराम उवाच ॥
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
प्रतीच्यां पातु रक्षोध्न उत्तरास्यांब्धि पारगः ॥1॥
उध् मूध्वर्गः पातु केसरीप्रियनन्दनः ।
अधश्च विष्णु भक्तस्तु पातु मध्ये च पावनिः ॥2॥
अवान्तर दिशः पातु सीताशोकविनाशनः ।
लंकाविदाहकः पातु सर्वापदभ्यो निरंतरं ॥3॥
सुग्रीवसचिवः पातु मस्तकं वायुनंदनः ।
भालं पातु महावीरो भ्रुवोमध्ये निरंतरं ॥4॥
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ।
कपोलौ कर्णमूले तु पातु श्रीरामकिंकरः ॥5॥
नासाग्रम्-अञ्जनीसूनुर्वक्त्रं पातु हरीश्वरः ।
वाचं रूद्रप्रियः पातु जिह्वां पिंगललोचनः ॥6॥
पातु दंतांफाल्गुनेष्टश्चिबुकं दैत्यप्राणह्रृत् ।
पातु कण्ठण्च दैत्यारीः स्कंधौ पातु सुरार्चितः ॥7॥
भुजौ पातु महातेजाः करौतू चरणायुधः ।
नखांनखायुध पातु कुक्षिं पातु कपीश्वरः ॥8॥
वक्षोमुद्रापहारी-च पातु पार्श्र्वे भुजायुधः ।
लंकाविभंजनः पातु पृष्ठदेशे निरंतरं ॥9॥
नाभिं च रामदूतोस्तु कटिं पात्वनिलात्मजः ।
गुह्मं पातु महाप्रज्ञः सक्थिनी-च शिवप्रियः ॥10॥
उरू-च जानुनी पातु लंकाप्रासादभंजनः ।
जंधे पातु महाबाहुर्गुल्फौ पातु महाबलः ॥11॥
अचलोध्दारकः पातु पादौ भास्करसन्निभः ।
पादांते सर्वसत्वाढ्यः पातु पादांगुलीस्तथा ॥12॥
सर्वांगानि महावीरः पातु रोमाणि चात्मवान् ।
हनुमत्कवचं यस्तु पठेद्विद्वान् विलक्षणः ॥13॥
स-एव पुरूषः श्रेष्ठो भक्तिं मुक्तिं-च विंदति ।
त्रिकालमेककालं-वा पठेन्मात्रयं सदा ॥14॥
सर्वान-रिपून्क्षणे जित्वा स पुमान् श्रियमाप्नुयात् ।
मध्यरात्रे जले स्थित्वा सप्तवारं पठेद्धादि ॥15॥
क्षयाऽपस्मार-कुष्ठादिता-पत्रय-निवारणं ।
आर्किवारेऽश्र्वत्थमूले स्थित्वा पठतिः यः पुमान् ॥16॥
अचलां श्रियमाप्नोति संग्रामे विजयीभवेत् ॥17॥
यः करे धारयेन्-नित्यं-स पुमान् श्रियमाप्नुयात् ।
विवाहे दिव्यकाले च द्धूते राजकुले रणे ॥18॥
भूतप्रेतमहादुर्गे रणे सागरसंप्लवे ।
दशवारं पठेद्रात्रौ मिताहारी जितेंद्रियः ॥19॥
विजयं लभते लोके मानवेषु नराधिपः ।
सिंहव्याघ्रभये चोग्रेशर शस्त्रास्त्र यातने ॥20॥
श्रृंखलाबंधने चैव काराग्रहकारणे ।
कायस्तंभ वहिन्नदाहे च गात्ररोगे च दारूणे ॥21॥
शोके महारणे चैव ब्रह्मग्रहविनाशने ।
सर्वदा तु पठेन्नित्यं जयमाप्नोत्य संशयं ॥22॥
भूर्जेवा वसने रक्ते क्षौमेवा तालपत्रके ।
त्रिगंधेन् अथवा मस्या लिखित्वा धारयेन्नरः ॥23॥
पंचसप्तत्रिलौहैर्वा गोपितं कवचं शुभं ।
गलेकट्याम् बाहुमूले वा कण्ठे शिरसि धारितं ॥24॥
सर्वान् कामान् वापनुयात् सत्यं श्रीराम भाषितम् ॥25॥