← Back
दुर्गा सप्तश्लोकी
ज्ञानिनामपि चेतांसि देवी भगवती हि सा।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥
दुर्गे स्मृता हरसि भीतिमशेषजंतोः।
स्वस्थैः स्मृता मतिमतीव शुभां ददासि।
दारिद्र्य-दुःख-भय-हारिणि का त्वदन्या।
सर्वोपकार-करणाय सदार्द्रचित्ता ॥2॥
सर्वमङ्गल-माङ्गल्ये शिवे सर्वार्थ-साधिके।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥3॥
शरणागत-दीनार्त-परित्राण-परायणे।
सर्वस्यार्ति-हरे देवि नारायणि नमोऽस्तु ते ॥4॥
सर्वस्वरूपे सर्वेशे सर्व-शक्ति-समन्विते।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥5॥
रोगानशेषानपहंसि तुष्टा।
रुष्टा तु कामान् सकलानभीष्टान्।
त्वामाश्रितानां न विपन्नराणां।
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥6॥
सर्व-बाधा-प्रशमनं त्रैलोक्यस्याखिलेश्वरि।
एवमेव त्वया कार्यमस्मद्-वैरिविनाशनम् ॥7॥